________________
Shri Mahafai Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsageri yanmandir
भवइ, किण्हा केसा पलिया भवंति, तंजहा जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपिय अणुपुdj विपहियवं भविस्सति, एवं संखाए से भिक्खू भिक्खायरियाए समुट्टिए दुहओ लोगं जाणेज्जा, तं० - जीवा चैव अजीवा चेव, तसा चेव धावरा चैव ॥ (सूत्रम् १३ )
यादृकामभोगेष्वसक्तः सनन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति । अस्य चार्थ - | स्योपदर्शनाय प्रस्तावमार चयन्नाह - प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः 'सन्ति' भवन्ति, तद्यथा - आर्या-आर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्याः शकयवनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादिकुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वर्णापसदसंभूताः, तथा 'कायवन्तः प्रांशवः, तथा 'हखा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णा : ' सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण' मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि ' खातोच्छ्रितादीनि तानि 'परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि- 'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति । तथा ते ( ये ) पामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः तेषु चार्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा तथाप्रकारेषु वा कुलेषु 'आगम्य' जन्म लब्ध्वाऽभिभूय च विषयकषायादीन् परीषहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः तथा 'सतो' विद्यमानानपि वा एके केचन महासत्त्वोपेता 'ज्ञातीन' स्वजनान् ( अज्ञातीन् - परिजनान् ) तथा 'उपकरणं
For Private And Personal