SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mat in Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha r anmandie यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः, तथा च खविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकलमिति, एतचानुपासितगुरोर्वचः, तथाहि-तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते ?, किमत्र प्रष्टव्यम् ?, अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति , तत्र यदि पयुदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं-घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्रादिव्यापारो न तर्हि तेन किश्चिद् घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति ?-भावं न करोतीति, ततश्च क्रियाप्रतिषेध एव कृतः स्यात् , न च घटादेः पदार्थस्य मुद्रादिना करणं, तस्य स्वकारणैरेव कृतत्वात् , अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः १, अथ तत्रापि कारकव्यापारो मवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिञ्चित्करत्वात् खहेतुत एवानित्यताकोडीकृतानां पदार्थानामुत्पत्तेविघ्नहेतोश्वाभावात् क्षणिकत्वमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति-'अण्णो अणण्णों' इति, ते हि बौद्धा यथाऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा 'नैवाहु' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत् तथाऽहेतुकोनाद्यपर्यवसितत्वानित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ॥१७॥ तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह पुढवी आउ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु आवरे ॥१८॥ एeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy