SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mar i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarrifyanmandir ekeeeeeeeeeeeeeeeel त्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिसरणादिकं च न प्रामोति, यच्चोक्तं 'सदेवोत्पद्यते', तदप्यसत् , यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादश्चेत् न तर्हि सर्वथा सदिति, तथा चोक्तम्- "कर्मगुणव्यपदेशाः । प्रागुत्पत्तेर्न सन्ति यत्तसात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् ॥१॥" तस्मात्सर्वपदार्थानां कथञ्चिनित्यत्वं कथश्चिदनित्यत्वं| सदसत्कार्यवादश्चेत्यवधार्य, तथा चाभिहितम्-"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्योराक-| तिजातिव्यवस्थानात् ॥१॥" इति, तथा "नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिात्यन्तरं घटः ॥१॥" ॥ १६ ॥ साम्प्रतं बौद्धमतं पूर्वपक्षयनियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावय नाहपंच खंधे वयंतेगे, बाला उ खणजोइणो । अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं ॥ १७ ॥ । 'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान वदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पश्चैव स्कन्धा विद्यन्ते नापरः। कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति | || वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञान विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोराहणात्मकः प्रत्ययः। [४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५। न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्य|भिचारिलिङ्गग्रहणाभावात, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला| यथाऽवस्थिताथोपरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः परमनिरुद्धः कालःक्षणः क्षणेन योगः-संबन्धः सूत्रकृ. ५ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy