________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
'निर्घाताय ' निर्जरणाय प्रवर्तकं पण्डितवीर्य, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्म विवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेब्वनेकेषु यत्कृतम् - उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान्न करोत्यसाविति ॥ २२ ॥ | किञ्च - 'महावीर' कर्मविदारणसहिष्णुः सन्नानुपूर्व्येण मिथ्यात्वाचिरतिप्रमादकषाय योगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करोति' न विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च यन्मतमष्टप्रकारं कर्म तत्सर्व 'हित्वा' त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखी भूतोऽसाविति ॥ २३ ॥ अन्यच - 'जम्मय'मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि - शल्यं - पापानुष्ठानं तज्जनितं वा कर्म तत्कर्त - यति - छिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे | तु सर्वकर्मक्षयाभावात् देवा अभूवन्, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ २४ ॥ | सर्वोपसंहारार्थमाह - 'पुरा' पूर्वस्मिन्ननादिके काले बहवो 'महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः | कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य - अतीव दुष्प्रापस्य ( मार्गस्य ) ज्ञानदर्शनचारित्राख्यस्य 'अन्त' परमकाष्ठामवाप्य तस्यैव मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ २५ ॥ इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ॥
For Private And Personal