SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar yanmandir विलसितप्रतिमम् ॥१॥" इत्यादि ॥ १७ ॥ अपिच-'इतः' अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्साकृतपुण्यस्य पुनर-181 सिन् संसारे पर्यटतो 'बोधिः' सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेनं यतो भवति, तथा 'दुर्लभा' दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा-मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ॥ १८॥ किश्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलज-|| गद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम् अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम् अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति(च)। तदेवम् 'अनीदृशस्य अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं-सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत? इति, तथोक्तम्-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥" इत्यादि ॥१९॥ किंचान्यत-कर्मबीजाभावात् 'कुतः' कसा. कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा अपुनरावृत्त्या गतास्तथा गताः पुनरस्मिन् संसारेऽशुचिनिगमोधाने समुत्पद्यन्ते ?, 18 न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा 'तथागताः' तीर्थकद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्धनरूपा येषां ते प्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानखादनुत्तरा 'लोकस्य जन्तुगणस्य सदसदर्थ| १ वान्तसम्यक्वधर्मस्यैतावताऽवश्यं सम्यक्त्रस्य पुनः प्राप्तेः । 3292020000028802902 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy