________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
y anmandir
अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति ॥ ४ ॥ सद्भावनाभाषितस्य । यद्भवति तद्दर्शयितुमाह
भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपन्ना, सबदुक्खा तिउद्दइ ॥५॥ | तिउद्दई उ मेधावी, जाणं लोगंसि पावगं । तुझंति पावकम्माणि, नवं कम्ममकुवओ॥६॥ 8 अकुवओ ण णत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाई ण मिजई ॥७॥ I ण मिजई महावीरे, जस्स नत्थि पुरेकडं । वाउव्व जालमञ्चेति, पिया लोगंसि इथिओ॥८॥18॥
भावनाभिर्योगः-सम्यक्प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धात्मा सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव-यथा जलेऽनिमजनलेन प्रख्याता एवमसावपि । | संसारोदन्वति न निमजतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमायतचारित्र-18 |वान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् 'त्रुव्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वोपरमरूपमवाप्नोतीति ॥ ५॥ अपिच-स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्यो-मनोवाकायेभ्योऽशुभेभ्यनुव्यति, यदिवा अतीव सर्ववन्धनेभ्यनुयति-मुच्यते अतित्रुट्यति-संसारादतिवर्तते 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वासिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापक' कर्म सावद्यानुष्ठानरूपं तत्कार्य वा अष्टप्रकारं
For Private And Personal