SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagasugi Gyanmandir भूयोऽपि व्याख्यायते - यत एते अकारकवादिन आत्मनोऽमूर्तख नित्यत्वसर्वव्यापिलेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नाः तेषां य एष 'लोको' जरामरणशोकाक्रन्द नहर्षादिलक्षणो नरकतिर्यमनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः कस्माद्धेतोः स्यात् ?, न कथञ्चित्कुतश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं - निकृष्टं यातनास्थानं यान्ति, किमिति १, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति ॥ अधुना नियुक्तिकारोऽकारकवा|दिमतनिराकरणार्थमाह- को वेई अकi ? कयनासो पंचहा गई नत्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च ॥ ३४ ॥ आत्मनोऽकर्तृत्कृतं नास्ति, ततश्वाकृतं को वेदयते ?, तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनुभू| येत तथा सत्यकृतागमकृतनाशापत्तिः स्यात्, ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी स्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापित्वानित्यत्वाचात्मनः 'पश्चधा' पञ्चप्रकारा नारकतिर्यमनुष्यामरमोक्षलक्षणा च गतिर्न भवेत्, ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजिखपञ्चरात्रोपदेशानुसारियमनियमाद्यनुष्ठानं, तथा "पञ्चविंशतितत्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" इत्यादि सर्वमपार्थकमाप्नोति तथा | देवमनुष्यादिषु गत्यागती न स्यातां, सर्वव्यापिखादात्मनः, तथा नित्यत्वाच्च विस्मरणाभावाज्जातिस्मरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुङ्क्ते' इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रियाखादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग' इति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वामात्रखात्, प्रतिविम्बोदयस्या For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy