SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahav radhana Kendra सूत्रकृताङ्ग शीलाङ्का चाय तियुतं ॥२४२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | शोभनं नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं 'वसेत्' तिष्ठेत्, यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत् तं सम्यक् कुर्यात्, आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तत्कार्यवपातका| री - वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते- अपनीयते कर्म येन स विनयस्तं सुष्ठु शिक्षेद् - विदध्यात् ग्रहणा सेवनाभ्यां | विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥ १ ॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छा|न्निर्गत्य एकाकिविहारितां प्रतिपद्यते स च बहुदोषभाग् भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह - 'यथेति दृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि - पतन्ति - गच्छन्ति तेनेति पत्रं - पक्षपुटं न विद्यते पत्र - | जातं - पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात् खनीडात् लवितुम् - उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयं' ति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाः पिशिताशिन: 'अव्यक्तगमं' गमनाभावे नंष्टुमसमर्थं 'हरेयुः' चश्चादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥ २ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह - 'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्तता प्रतिपादिता इह वपुष्टध|र्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं क्षुद्रसच्या विनाशयन्ति एवं शिक्षकमभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् 'अपुष्टधर्माणं' सम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माण: पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निः - For Private And Personal १४ ग्रन्थाध्ययनं. ॥२४२॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy