________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
KA हि आचार्यो 'द्विविधो द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयनपि द्विविधः-एको यः शिक्षाशास्त्रं
ग्राहयति-पाठयत्यपरस्तु तदर्थ दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति-सम्यगनुष्ठानं कारयति । तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नप्याचार्यस्त्रिधा भवति । आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्द्विविधो भवति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं कस्तं | सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
गंथं विहाय इह सिक्खमाणो, उहाय सुबंभचेरं वसेजा । ओवायकारी विणयं सुसिक्खे, जे छेय विप्पमायं न कुज्जा ॥१॥ जहा दियापोतमपत्तजातं, सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजातं, ढंकाइ अवत्तगमं हरेजा ॥२॥ एवं तु सेहंपि अपुटधम्म, निस्सारियं वुसिमं मन्नमाणा। दियस्स छायं व अपत्तजायं, हरिंसु णं पावधम्मा अणेगे ॥३॥
ओसाणमिच्छे मणुए समाहि, अणोसिए गंतकरिंति णच्चा। ओभासमाणे दवियस्स वित्तं, ण णिकसे बहिया आसुपन्नो ॥४॥
'इह' प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रथ्यते आत्मा येन स ग्रन्थो धनधान्यहिरण्यद्विपदचतुष्पदादि-15 |'विहाय त्यक्ता प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपां च शिक्षां च कुर्वाणः-सम्यगासेवमानः सुष्टु-18
teeeeeeeeeeeeeeee
For Private And Personal