________________
Shri Mahav
d
hana Kendra
www.kcbatrth.org
Acharya Shri Kailashag
a nmandir
अथ ग्रन्थनामकं चतुर्दशमध्ययनं प्रारभ्यते ।
उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने याथातथ्यमिति सम्यश्चारित्रमभिहितं, तच बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदाद्गुणनिष्पन्नवाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह
गंयो पुव्वुद्दिवो दुविहो सिस्सो य होति णायव्यो । पव्वावण सिक्खावण पगयं सिक्खावणाए उ ॥ १२७ ॥ । सो सिक्खगो य दुविहो गहणे आसेवणाय णायव्यो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य ॥१२८॥ |
आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥ १२९॥ आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतो य । सिक्खावंतो दुविहो गहणे आसेवणे चेव ॥ १३०॥ गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ ॥ १३१॥ । ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदमिन यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो द्विप्रकारो ज्ञातव्यो भव
eceaeeeeeeeeeeeeos
सुत्रकृ. ४१
For Private And Personal