________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsach.coyanmandir
IA पठन्नपि सर्वशास्त्राणि तदर्थ चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति ॥९॥ सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जा-IH
तिमदो बाद्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा-इक्ष्वाकुवंशादिकः, तद्भेद| मेव दर्शयति-'उग्रपत्रः क्षत्रियविशेषजातीयः तथा 'लेच्छइति क्षत्रियविशेष एव, तदेवमादिविशिष्टकुलोद्भतो यथावस्थि-15 तसंसारखभाववेदितया यः 'प्रव्रजितः' त्यक्तराज्यादिगृहपाशबन्धनः परैदेत्तं भोक्तुं शीलमस्य परदत्तभोजी-सम्यक्संयमानुष्ठायी 'गोत्रे उच्चैोत्रे हरिवंशस्थानीय समुत्पन्नोऽपि नैव 'स्तम्भ गर्वमुपयायादिति, किंभूते गोत्रे ?-'अभिमानबद्धे' अभिमानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सवेलोकाभिमान्योऽपि प्रवजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थ पर हाण्यटन् कथं हास्यास्पदं गर्व कुर्यात, नैवासौ मानं कुर्यादिति तात्पयोथैः ॥१०॥न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह-न हि 'तस्य' लघुप्रकृतेरभिमानोद्धरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, नाभिमानो जात्यादिक ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम् , एतच्चोपलक्षणम् , अन्यदपि मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तारकलेन त्राणसमर्थ तद्दर्शयति-ज्ञानं च चरणं च ज्ञानचरणं तमादन्यत्र संसारोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्खोपबृंहितं सत् सुष्टु चीण सुचीर्ण संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वचनात् , एवंभूते सत्यपि मोक्षमार्गे 'निष्क्रम्यापि' प्रव्रज्यां गृहीवापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां-गृहस्थानामङ्ग-कारणं जात्यादिकं मदस्थानं, पाठान्तरं वा 'अगारिकम्मति अगारिणां कर्म| अनुष्ठानं सावद्यमारम्भ जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेषकर्मक्ष
eeeeeeeeeeeeeeees
For Private And Personal