SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra ramanat Acharya Shri Kallashsa 'स एव पुरुषजातः स एव परमार्थतः पुरुषार्थकारी नापरो योनायुधतपस्विजनपराजितेनापि क्रोधेन जीयते, तथाऽसावेव 'जात्यन्वितः सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा स एव सुष्ठ-अतिशयेन ऋजु:संयमस्तत्करणशील:-ऋजुकरः, यदिवा 'उजुचारे'त्ति यथोपदेशं यः प्रवर्तते न तु पुनर्वक्रतयाऽचार्यादिवचनं विलोमयतिप्रतिकूलयति, यश्च तथाः पेशल: सूक्ष्मभाषी जात्यादिगुणान्वितः कचिदवक्रः 'समो' मध्यस्थो निन्दायां पूजायां च न रुष्य-1 |ति नापि तुष्यति तथा अझंझा-अक्रोधोऽमाया वा तां प्राप्तोऽझंझाप्राप्तः, यदिवाऽझंझाप्राप्तैः-चीतरागैः 'सम' तुल्यो भवतीति || ॥७॥ प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह-यश्चापि कश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु-द्रव्यं तच्च ४ | परमार्थचिन्तायां संयमस्तद्वन्तमात्मानं मखाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यगविधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं संख्येत्युच्यते तद्वन्तमात्मानं मला तथा सम्यक्-परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात् तथा तपसा-द्वादशभेदभिन्नेनाहमेवात्र सहितो-युक्तो न मत्तुल्यो विकृष्टतपोनिष्टप्तदेहोऽस्तीत्येवं मखाऽऽमोत्कर्षाभिमानीति 'अन्यं जनं' साधुलोकं गृहस्थलोकं वा 'बिम्बभूतं' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा 'पश्यति' अवमन्यते । तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति ॥८॥ किश्चान्यत् एगंतकूडेण उ से पलेइ, ण विजती मोणपयंसि गोत्ते । जे माणणटेण विउक्सेजा, वसुमन्न सूत्रकृ. ४० For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy