________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsal
Gyanmandir
दितस्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधै सम्यगनुष्ठानं, विनयतथ्यं द्विचलारिंशद्भेदभिन्ने विनये । ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाविधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह–'यथा' येन प्रकारेण यथा पद्धच्या सूत्रं || | व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थों' व्याख्येयोऽनुष्ठेयश्च, एतदर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणम् अतो यथा मुत्र तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वार्धस्यैव भावार्थ गाथापश्चाधैन दर्शयितुमाह-यवस्तुजातं 'प्रकृतं प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तसिन्नर्थे 'सति विद्यमाने यथावयाख्यायमाने संसारोत्तारणकारणलेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणखेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति-यदि [यथा] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थो यदि| भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारकारणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ।। एतदेव दृष्टान्तगर्भ दर्शयितुमाह-आचार्याः-सुधर्मखामिजम्बुनामप्रभवार्यरक्षिताद्यास्तेषां प्रणालिका-पारम्पर्य तेनागतं यद्याख्यानं सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदर्याध्मातमानसो मिथ्याखोपहतदृष्टितया 'छेकबुद्ध्या' निपुणबुद्ध्या कुशाग्रीयोमुषीकोऽहमि
१ ज्ञानेऽष्टौ दर्शने चारित्रे च तपसि विनयस्य विधेयलादेकादश औपचारिके सप्तमेदरूपे यद्वा क्रमेण पञ्चैकसप्तदशद्वादशसप्तभेदरूपे ।
esesereeeeeeeeeeeee
For Private And Personal