________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailash
Gyanmandir
___www.kobatirth.org कारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतः, तव्यतिरिक्तवस्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृखेनाकिश्चित्करखात्, खभाव-10 वैषम्याभ्युपगमे तु निर्हेतुकखापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तं च-"नित्यं सत्त्वमसत्त्वं वाहतोरन्यानपेक्षणात् । अपे|क्षातो हि भावानां, कादाचित्कखसंभवः॥१॥" अपिच-महदहङ्कारौ संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहङ्कारश्चाहं सुख्यहं दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणवं, न जडरूपायाः प्रकृतेर्विकारावेताविति । अपिचयेयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्द|तन्मात्रादाकाशमिति, सापि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात् , न कदाचिदनीदृशं जगदितिकृखा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल खगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृग्र द्रवलक्षणा आपः पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुपिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोवापि केषाञ्चिच्छरीराणां शुक्रासक्प्रभवोत्पत्तिः, न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि कारणखकल्पनेतिप्रसङ्गः स्यात्, अण्डजोद्भिजाङ्करादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽभ्युपगम्यते | तत्तैनियुक्तिकमेव खदर्शनानुरागेणाभ्युपगम्यत इति । आत्मनश्चाकर्तृवाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, | निर्गुणखे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्चाचेतनाया आत्मार्थ प्रवृत्तियुक्तिविकलेति । अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दार्यतनं धर्मायतनं च, धर्माः-सुखादयो विधा०प्र०।२ गन्धः संबन्धलेशयोः । ३ तन्मात्रापश्चकस्य । ४ मानसमिति शब्दान्तर, तस्य शब्दमयविचारात्मकत्वात् ।
For Private And Personal