________________
Shri Ma
r
adhana Kendra
www.kobatirth.org
Acharya Shri Kil
a
nman
2000000000
eeeeeeeeeeeeee
जलवतो भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसंबन्धरूपाणां गुणानां सद्भावात् द्रव्ये पृथुबुनाकार उदकाद्याहरणक्षमे | | कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात् , कतरच तद् द्रव्यं यत्र शब्दनिवेशो।। येन भावप्रत्ययः स्यादिति । किमिदानी रक्तस्य भावो रक्तत्वमिति न भवितव्यं, भवितव्यमुपचारेण, तथाहि-रक्त इत्येतद्रव्यत्वेनोपचर्य तस्य सामान्यं भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य कृतार्थत्वादिति । शब्दश्चाकाशस्य गुण एव न भवति, तस्य पौद्गलिकत्वाद्, आकाशस्य चामूर्तत्वादिति । शेषं तु प्रक्रियामात्रं न साधनदूषणयोरङ्गम् । क्रियापि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं, तद्विधा-परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तम्-“सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकं, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिबन्धन उत स्वत एव ?, तत् | यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ स्वत एव ततस्तद्वद् द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति | किमपैरसत्तयाऽजागलस्तनकल्पया विकल्पितया ?, किश्च-द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां ?, तत् यदि सतां खत एव सत्प्रत्ययो भविष्यति किं तया', असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्-| "खतोाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? । असदात्मसु नैषा स्यात्सर्वथातिप्रसङ्गतः ॥१॥" इत्यादि । एतदेव दृषण-10 मपरसामान्येऽप्यायोज्यं, तुल्ययोगक्षेमत्वात् । किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यत एवेति, तस्य च १ समानखभावो भावः । २ गुणस्य पदार्थखरूपत्वान्न पृथक्पदार्थता । ३ द्रव्यादिभिन्नया ।
0
000
For Private And Personal