________________
Shri Mana
r
dhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
y amandir
eeeeeeeeeeeeeeeeeee
स्थान चैतदिष्यत इति । असिद्धानैकान्तिकविरुद्धा हेलाभासाः, हेतुवदाभासन्त इति हेलाभासाः, तत्र सम्यग्धेतूनामपि न तत्त्व| व्यवस्थितिः किं पुनस्तदाभासानां ?, तथाहि-इह यन्नियतं वस्वस्ति तदेव तचं भवितुमर्हति, हेतवस्तु कचिद्वस्तुनि साध्ये हे-10 | तवः क्वचिदहेतव इत्यनियतास्त इति । अथ 'छलम्' अर्थविघातोऽर्थविकल्पोपपत्त्येति, तत्रार्थविशेषे विवक्षितेभिहिते वक्तुरभिप्रा
यादोंन्तरकल्पना वाकछलं, यथा नवकम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न स| मासे, तत्रायं छलवादी नव कम्बला अस्पेत्येतद्भवताऽभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यस-४ |दर्थाभिधानं, तद्यदि छलं न तर्हि तत्त्वं, तत्त्वं चेन्न तर्हि छलं, परमार्थरूपखात्तत्त्वस्येति, तदेवं छलं तत्त्वमित्यतिरिक्ता वाचोयु|क्तिः । दूषणाभासास्तु जातयः, तत्र सम्यग्रदूषणस्यापि न तत्वव्यवस्थितिः, अनियतखात्, अनियतत्त्वं च यदेवैकमिन् सम्यग्रदूषणं | तदेवान्यत्र दूषणाभासं, पुरुषशक्त्यपेक्षखाच दृषणदूषणाभासव्यवस्थितेरनियतसमिति कुतः पुनर्देषणाभासरूपाणां जातीनाम् ?, अवास्तवत्त्वात्तासामिति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तन्निग्रहस्थानं, तच्च वादिनोऽसाधनाङ्गवचनं प्रतिवादिनस्तहो(श्च तत्तदोषोद्भावनं विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम् , एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपि च पुरुषस्यैवापराधं कर्तुमलं, न खेतत्तत्वं भवितुमर्हति, वक्तृगुणदोषौ हि परार्थेऽनुमानेधिक्रियेते न तु तत्त्वमिति, तदेवं न नैयायिकोक्तं तत्त्वं तत्त्वेनाश्रयितुं युज्यते, तस्योक्तनीत्या सदोषलादिति ॥ नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यतेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि, तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यखमनुपपन्न, तथाहि-त एव परमाणवः प्रयोगवित्रसा
For Private And Personal