SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Man 17 Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir IS|| तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तु युज्यते, तथाहि-मरुमरीचि|| कानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीतिकृता किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति', न हि मशकवर्तिरनिसिद्धाबुपदिश्यमाना व्यभिचारिणीति सत्यधृमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, ततव प्रमातुरयमपराधो न प्रमाणस्य, एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति, यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शक्यते सोऽनुपपत्रः, तथाहि-कार्याकूताव क्षुतेऽपि गच्छतो या कार्यसिद्धिःसापान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमव8| गन्तव्यं, शोभननिमित्तास्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुतिः-किल बुद्धः स्खशिष्यानाहूयोक्तवान् , यथा-18 'द्वादशवार्षिकमत्र दुर्मिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः, यथा 'मा गच्छत यूयगम्, इहाद्यैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावात्तद्यभिचारशङ्केति स्थितम् ॥१०॥ साम्प्रतं क्रियावादिमतं दुषयिषुस्तन्मतमाविष्कुर्वन्नाह-ये क्रियात एव ज्ञाननिरपेक्षायाःदीक्षादिलक्षणाया मोक्षमिच्छशन्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल मिति, किं कृतात एवं कथयन्ति ?-क्रियात एव सर्व सिध्यतीति खाभिप्रायेण 'लोक' स्थावरजङ्गमात्मकं 'समेत्य' ज्ञाखा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्व मस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथचिनास्तीति, कथमाख्यान्ति ?-'तथा तथा' तेन (तेन) प्रकारेण, यथा यथा क्रिया तथा तथा खर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किश्च-यत् किमपि संसारे । दुःखं तथा सखं च तत्सर्व स्वयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र ह्यक्रियतादात्मनोऽकृतयो For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy