SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir निवार्य, संभवानुमानं खिदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगर्म प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि स्वादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि-न तावदग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः ९ साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेयविज्ञानशून्यखाद्, अशून्यखाभ्युपगमे च सर्वज्ञत्वापत्तिरिति । नाप्यनुमानेन, तदव्यभिचा| रिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्ये तादृग्विधं साह श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापत्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्त| नात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् , नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभाव: सिध्यति, तथाहि-सर्वत्र सर्वदा न संभवति तद्ग्राहकं प्रमाणमित्येतदर्वाग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां , | पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात् , तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः, न चार्वाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं | सौधयति, तस्याव्यापकत्वात् , न चाव्यापकव्यावृत्त्या पदार्थव्यावृत्तियुक्तेति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाधनायालं, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दुरापास्त इति, तथाहि-तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्र-16 व्यापी संसार्यात्माऽस्ति, तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोषश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः४ । १ शास्त्राभ्यासे करणवात्तृतीया यद्वाऽभ्यासाभ्यस्ययोरैक्यं । २ बुद्धितारतम्योपलब्धेर्विश्रान्तिसिद्धिः । ३ भावयति प्र० । ४ घटज्ञाने हि पटाभावप्रतीतियथा ।। ५ विषयितानियमाभावात् । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy