________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
200202000000000000296asm
मवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिविध, सचित्तमपि द्विपदचतुष्पदापदभेदात्रिविधमेव, | तत्र द्विपदानां साधुप्रभृतीनां तीर्थकृजन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां खतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु घणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । इदानीं भावसमवसरणमधिकृत्याहभावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधं, मिथ्याखाज्ञानासंयतखासिद्धखानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षड्विधा भवन्ति । औपशमिको द्विविधः सम्यक्सचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाचतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदांत्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धि नलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्खचारित्रसंयमासंयमाः प्रत्येकमेकप्रकाराइति । क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदशेनं दानादिलब्धयः पञ्च सम्यक्वं चारित्रं चेति । जीवनभव्यखाभव्यखादिभेदात्पारिणामिकस्त्रिविधः । सान्निपातिकस्तु द्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदायिकक्षायिकपारिणामिकभावसद्भावाद्विलेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकमावसद्भावात ,
For Private And Personal