________________
Shri Maharadhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृ
त्तियुतं
॥१९७॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
सम्यग्ज्ञानं दर्शनं चरित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा यथावस्थितवस्तुतत्त्वनिरूपणया प्रणीतस्तैरेव (च) सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्णः' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्त| मार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनलेन विशेषणार्थ इति ॥ स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्द - | कारिणां कुमार्गाश्रितत्वं दर्शयितुमाह – ये केचन अपुष्टधर्माण: शीतलविहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताश्च अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि| शरीरमिदमाद्यं धर्मसाधनमिति मला कालसंहननादिहाने श्वाधाकर्माद्युपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति ते चैवं प्रतिया| दयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्ती| थिंका इति ॥ प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह - तपः - सबाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः - सप्तदशभेदः पञ्चाश्रव| विरमणादिलक्षणस्ताभ्यां प्रधानास्तपः संयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भाव' परमार्थं जीवाजीवादिलक्षणं 'वदन्ति' प्रतिपादयन्ति, किंभूतं ! - सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं - पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यमार्गज्ञाः 'सम्यग' अविपरीतखेन प्रणीतम् 'आहुः' उक्तवन्त इति ॥ साम्प्रतं | सन्मार्गस्यैकार्थिकान् दर्शयितुमाह – देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽव| गन्तव्यः १, तथा 'मार्ग' इति पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति
१ चारित्रा० प्र० ।
For Private And Personal
११ मार्गाध्ययनं भा
मार्गाः
१३
॥१९७॥