________________
Shri Mahavir dhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुत
॥१९५॥
www.kobatirth.org
Acharya Shri Kailashsagaanmandir
,
"बयालीसेसणसं कडंमि गहणंमि जीव ! नहु छलिओ । इहि जह न छलिजसि भुंजतो रागदोसेहिं ॥ १ ॥ " तत्रापि रागस्य | प्राधान्यख्यापनायाह-न मूर्छितो मूर्च्छितः सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति, तथा अनध्युपपन्नस्तमेवाहारं पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत्, प्रायो विदितवेद्यस्यापि विशिष्टाहारसन्निधावभिला| पातिरेको जायत इत्यतो मूर्च्छितोऽनभ्युपपन्न इति च प्रतिषेधद्वयमुक्तम् उक्तं च- "भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य | भाविओ । संतेसाहारमाईसु, सोऽवि खिप्पं तु खुम्भइ ॥ १ ॥” तथा संयमे धृतिर्यस्यासौ धृतिमान्, तथा सबाह्याभ्यन्तरेण ग्रन्थेन | विमुक्त:, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत् तथा श्लोक:| श्लाघा कीर्तिस्तगामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः || २३ || अध्ययनार्थमुपसंजिघृक्षुराह - गेहान्निःसृत्य 'निष्क्रम्य च' प्रव्रजितोऽपि भूत्वा जीवितेऽपि निराकाङ्क्षी 'कार्य' शरीरं व्युत्सृज्य निष्प्रतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्, तथा न जीवितं नापि मरणमभिकाङ्गेत् 'भिक्षुः' साधुः 'वलयात्' संसारवलया| त्कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत् इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥ इति समाध्याख्यं दशममध्ययनं समाप्तं ॥
,
18001
१ द्विचत्वारिंशदेषणादोषसंकटे गहने जीव ! नैव छलितः । इदानीं यदि न छल्यसे भुञ्जन् रागद्वेषाभ्यां ( तदा सफलं तत् ) ॥ १ ॥ २ भुक्तभोगः पुरा योऽपि गीतार्थोऽपि च भावितः । सत्खाद्दारादिषु सोऽपि क्षिप्रमेव क्षुभ्यति ॥ १ ॥
For Private And Personal
१० समा
ध्यध्ययनं
॥ १९५॥