SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org आदानीयो - हितैषिणां मोक्षस्तन्मार्गों वा सम्यग्दर्शनादिकः पुरुषाणां - मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषा - मिति विगृह्य मत्वर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत् - प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा 'नाभिकाङ्क्षति' नाभिलपन्तीति ॥ ३४ ॥ किञ्चान्यत्- 'अगृद्धः' अनभ्युपपन्नोऽमूच्छितः क ? - शब्दस्पर्शेषु मनोज्ञेषु | आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यं, तथा 'आर|म्भेषु' सावधानुष्ठानरूपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह— 'सर्वमेतद्' अध्ययनादेरारभ्य प्रति|षेध्यत्वेन यत् लपितम् उक्तं मया बहु तत् 'समयाद्' आर्हतादागमादती तमतिक्रान्तमितिकृत्वा प्रतिषिद्धं यदपि च विधिद्वारे| णोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपि च तैः कुतीर्थिकैर्बहु लपितं तदेतत्सर्वं समयातीतमितिकृत्वा नानुष्ठेयमिति ॥ ३५ ॥ प्रतिषेध्यप्रधाननिषेधद्वोरण मोक्षाभिसन्धानेनाह – अतिमानो महामानस्तं चशब्दात्तत्सहचरितं क्रोधं च, तथा मायां चशब्दात्तत्कार्यभूतं लोभं च तदेतत्सर्वं 'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् | तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञाखा संसारकारणत्वेन परिहरेत्, परिहृत्य च 'मुनिः' साधुः 'निर्वाणम्' अशेषकर्मक्षयरूपं विशिष्टशकाशदेशं वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इतिः परिसमाप्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३६ ॥ समाप्तं धर्माख्यं नवममध्ययनमिति ॥ 141494 Acharya Shri Kailash Gyanmandir For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy