________________
Shri M
P
Aradhana Kendra
www.kobatirth.org
Acharya Si Kailassagy
aman
गपारतच्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्योधर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानापि मदशक्तिरिति, तदा कुतोऽस्य दोषस्थावकाश इति ?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते-यत्ताव
दुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते,' तत्र विकल्पयामा-किमसौ संयोगः संयोगिभ्यो भिन्न भिन्नो Sवा?, भिन्नश्चेत्षष्ठभूतप्रसंगो, न चान्यत् पश्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात् , १ तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यो संयोगः, तत्राप्येतचिन्त
| नीयं-किं भूतानि प्रत्येकं चेतनावन्त्यचेतनावन्ति वा ?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य 1|| पश्चप्रकारचैतन्यापत्तिः, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिक-11
तासु तैलवदित्यादिना। यदप्यत्रपूर्वोक्तं-यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तं, यतस्तत्र किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि-किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्य च उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदाान्तिकयोरसाम्यं । किंच-भूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानां सद्भावात, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशिक्षितस्योल्लापः, तथाहि-मृतकाये शोफोपलब्धेन वायोरभावः, कोथस्य च पक्तिखभावस्य दर्शनानानेरिति, अथ मूक्ष्मः कश्चिद्वायुविशेषोऽग्निर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किश्चिदेतत् । तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धेः, अथ कायाकारपरिणती सत्यां तदभिव्यक्तिरि
६. तासु तलवादिषु या च निति, भूता
edeoeceaeeeeeeeeeeeeee
900000000000000299999
For Private And Personal