SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं | वैरं प्रवर्द्धत इति भावः किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाश्वारम्भैः सम्यग् भृताः संभृता - आरम्भपुष्टा आरम्भाश्च जीवो| पमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम् – अष्टप्रकारं कर्म तद्विमोचका | भवन्ति - तस्थापनेतारो न भवन्तीत्यर्थः ॥ ३ ॥ किञ्चान्यत् - आहन्यन्ते - अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् स आघातो -- मरणं तस्मै तत्र वा कृतम् - अग्निसंस्कारजलाञ्जलिप्रदान पितृपिण्डादिकमाघातकृत्यं तदाघातुम् - आधाय कृत्वा पश्चात् 'ज्ञातयः' स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ? - विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य दुःखार्जितं 'वित्तं' द्रव्यजातम् ' अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम् - " ततस्तेनार्जितैर्द्रव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हृष्टास्तुष्टा हालङ्कृताः ॥ १ ॥ स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभिः सं| सारे 'कृत्यते' छिद्यते पीड्यत इतियावत् ॥ ४ ॥ स्वजनाच तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमाया पिया ण्डुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते तव ताणाय, लुप्पंतस्स संकम्मुणा ॥५॥ एयमटुं सपेहाए, परमट्टाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥ ६ ॥ चिच्चा वित्तं च पुत्ते य, णाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिवए ॥ ७ ॥ For Private And Personal csese
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy