SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmanat अथ नवमं अध्ययनं प्रारभ्यते ॥ अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने बालपण्डितभेदेन द्विरूपं वीर्य प्रतिपादितं, अ-18 त्रापि तदेव पण्डितवीर्य धर्म प्रति यदुद्यम विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चखार्यनु18| योगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपाद्यत इति तम-18 मधिकृत्य नियुक्तिकृदाह____धम्मो पुव्वुद्दिडो भावधम्मेण एत्थ अहिगारो । एसेव होइ धम्मे एसेव समाहिमग्गोत्ति ॥ ९९॥ दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवैकालिकश्रुतस्कन्धषष्टाध्ययने धर्मार्थकामाख्ये उद्दिष्टः-प्रतिपादितः, इह तु || भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशबाह-एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि-धर्मः श्रुतचारित्राख्यः शान्त्यादिलक्षणो वा दशप्रकारो भवेत् , भावसमाधिरप्येवंभूत एव, | तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति ।। साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थ धर्मस्य नामादिनिक्षेप दर्शयितुमाह eeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy