SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir 'सातं' सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य 'जानीहि ' अवगच्छेति, यत उक्तम्- “पढेमं नाणं तयो दया, एवं चिट्ठह सब संजए । अन्नाणी किं काही, किंवा णाही छेयपावगं ॥ १ ॥ इत्यादि " || १९|| ये पुन: प्राण्युपमर्द्देन सातमभिलषन्तीत्यशीलाः कुशीलाच ते संसारे एवंविधा अवस्था अनुभवन्तीत्याह - तेजः कायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नरकादिगतिं गतास्तीत्रदुः खैः पीड्यमाना असह्य वेदनाघ्रातमानसा अशरणाः 'स्तनन्ति' रुदन्नति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंती' ति छिद्यन्ते | खङ्गादिभिरेवं च कदर्थ्यमानाः 'त्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः- सपापा इत्यर्थः, तथा पृथक् 'जगा' इति जन्तव इति, एवं 'परिसङ्ख्याय' ज्ञाला भिक्षणशीलो 'भिक्षुः' साधुरित्यर्थः यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते | तस्मात् 'विद्वान' पण्डितो विरतः पापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाक्कायगुप्त इत्यर्थः, दृष्ट्वा च त्रसान् चश| ब्दात्स्थाघरांथ 'दृष्ट्वा' परिज्ञाय तदुपधातकारिणीं क्रियां 'प्रतिसंहरेत्' निवर्तयेदिति ॥ २० ॥ साम्प्रतं स्वयूथ्याः कुशीला अ भिधीयन्त इत्याह- 'ये' केचन शीतलविहारिणो धर्मेण - मुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं 'विनिधाय' व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते तथा ये 'विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रायुक| एव प्रदेशे देशसर्वत्रानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभार्थं दीर्घमुत्पाटयिला हवं करोति | हवं वा सन्धाय दीर्घं करोति एवं लूपयति, तदेवं खार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ 'णागणियस्स' ति निर्ग्रन्थमावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थंकरगणधरादय आहुरिति ॥ २१ ॥ उक्ताः कुशीलाः, सत्प्रतिपक्ष१ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतेषु अज्ञानी किं करिष्यति किं वाज्ञास्यति छेकपापकं ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy