________________
Shri Mahavi Hadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaanmandir
यते' श्रियते पूर्यते यदिवा 'मी हिंसाया' मीयते हिंस्यते अथवा बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव | कर्मणा मीयते - परिच्छिद्यत इति ॥ ३ ॥ ॥ क पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति - यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विषाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददत 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथा - ' अन्यथा वेति, इदमुक्तं भवति — किञ्चित्कर्म तद्भव एवं विपाकं ददाति किञ्चिच्च जन्मान्तरे, यथा— मृगापुत्रस्य दुःखविपाकाव्ये विपाकश्रुताङ्गश्रुतस्कन्धे | कथितमिति, दीर्घकालस्थितिकं खपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो | वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटी - | यन्त्रन्यायेन संसारं पर्यटन्तः 'परं परं ' प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तचैकमार्तध्यानोपहता अपरं बनन्ति वेदयन्ति च दुष्टं नीतानि दुर्नीतानि - दुष्कृतानि न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम् - " मा होहि रे | विसन्नो जीव ! तुमं विमणदुम्मणो दीणो । गहु चिंतिएण फिट्टइ तं दुक्खं जं पुरा रहयं ॥ १ ॥ जैइ पविससि पायालं अडविं व दरिं गुहं समुदं वा । पुवकयाउ न चुक्कसि अप्पाणं घायसे जइवि ॥ २ ॥ * ॥ ४ ॥ एवं तावदोषतः कुंशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याह
१ मा भवरे विषण्णो जीव ! खं विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तद्दुःखं यत्पुरा रचितं ॥ १ ॥ २ यदि प्रविशसि पातालं अटवीं वा दरीं गुहां समुद्रं वा । पूर्वकृतान्नैव भ्रश्यसि आत्मानं घातयसि यद्यपि ॥ १ ॥
For Private And Personal