________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
ओहे सीलं विरती विरयाविरई य अविरती असीलं । धम्मे णाणतवादी अपसत्थ अहम्मकोवादी ॥ ८७॥ तत्रौषः-सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायांतु-अनवरतसेवनायां तु शीलमिदं, तद्यथा-'धर्मे धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा,
आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं खधर्मप्रवृत्तिबाह्या आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रह||णात शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति ।। साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थता दर्शयितुमाह| परिभासिया कुसीला य एत्थ जावंति अविरता केई । सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो॥ ८८॥ | परि-समन्तात् भाषिताः-प्रतिपादिताः 'कुशीला:' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात् यावन्तः केच-| नाविरता असिमित्यत इदमध्ययन कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशसायां शुद्धविषये वर्तते, तद्यथा-सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थ कुर इत्यादि ॥ यदि कुत्सितशीला: कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह
अफासुयपडिसेविय णामं भुजो य सीलवादी य । फासुं वयंति सीलं अफासुया मी अभुंजता ॥ ८९॥
अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि-यः फलनिरपेक्षः क्रियाखाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलतेन प्रदर्शितः, | अस्त्युपशमप्रधाने चारित्रे, तथाहि-तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह भावशीलग्रहणेनोपात्त इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्खा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्खा नापरः कश्चिद्यापारोऽस्तीत्यतस्त
9298999999eSassa
For Private And Personal