SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org १०यभिप्रायः प्र० । खत्तीण सेट्टे जह दंतवक्के, इसीण सेट्टे तह वद्धमाणे ॥ २२ ॥ 'हस्तिषु' करिवरेषु मध्ये यथा 'ऐरावणं' शत्रवाहनं 'ज्ञातं ' प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, 'मृगाणां' च श्वापदानां मध्ये यथा 'सिंह' केसरी प्रधानः तथा भरतक्षेत्रापेक्षया 'सलिलानां' मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति, 'पक्षिषु' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाताः - क्षत्रियास्तेषां पुत्रः - अपत्यं ज्ञातपुत्रः- श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः ॥ २१ ॥ अपिच - योधेषु मध्ये 'ज्ञातो' विदितो दृष्टान्तभूतो वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेन :- चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता - उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्य:- चक्रवर्ती यथाऽसौ श्रेष्ठः । तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदर्श्याधुना भगवन्तं दाष्टन्तिकं स्वनामग्राहमाह - तथा ऋषीणां मध्ये श्रीमानू वर्धमानखामी श्रेष्ठ इति ॥ २२ ॥ तथा दाणा से अभय पाणं, सच्चेसु वा अणवजं वयंति । तवे वा उत्तम बंभरं, लोगुत्तमे समणे नायपुत्ते ॥ २३ ॥ Acharya Shri Kailashsagari Gyanmandir For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy