________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
| नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्म 'जिनानाम्' ऋषभादितीर्थकृता सम्बन्धिनमयं 'मुनिः' श्रीमान् वर्धमानाख्यः | 'काश्यपः' गोत्रेण 'आशप्रज्ञः केवलज्ञानी उत्पन्नदिव्यज्ञानो 'नेता' प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे 'न लोकाव्ययनि
छे' (पा०२-३-६९ ) त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो 'दिवि स्वर्गे देवसहस्राणां 'महानु| भावों' महाप्रभाववान् 'णम्' इति वाक्यालङ्कारे तथा 'नेता' प्रणायको 'विशिष्टो' रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥७॥ अपिच-असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया 'अक्षयः' न तस्स ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रमावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद् , एकदेशेन खाह—यथा 'सागर' इति, अस्य चाविशिष्टलात् विशेषणमाह-'महोद| घिरिव' स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरम&णानन्तगुणा गम्भीराक्षोभ्या च, यथा च असौ सागरः 'अनाविला' अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावाद
कलुषज्ञान इति, तथा-कषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तो मुक्तः, भिक्षुरिति कचित्पाठः, तस्यायमर्थः-सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यले च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासी, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः 'द्युतिमान्' दीप्तिमानिति ॥ ८॥ किञ्च१ स्थित्यपेक्षया ज्ञेयापेक्षया तु द्रव्यादिवदनाद्यनन्तकालगोचरैव ।
eaeeeeeeeeeeeeeeewer
For Private And Personal