SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Hadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचितं ॥१४४॥ ১9999999 www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir | भगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुः पथे' लोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानीहि ' अवगच्छ 'धर्म' संसारोद्धरणखभावं, तत्प्रणीतं वा श्रुतचारित्राख्यं तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनखभावां 'धृतिं संयमे रतिं तत्प्रणीतां वा 'प्रेक्षस्व' सम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा – तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा वं तस्य भगवतो यशस्विनचक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं 'पेहि' ति कथयेति ॥ ३ ॥ साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयि तुमाह - ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति त्रसास्तेजोवायुरूप विकलेन्द्रियपश्चेन्द्रियभेदात् विधा, तथा ये च 'स्थावरा:' पृथिव्याम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते प्राणिन इति, | अनेन च शाक्यादिमतनिरासेन पृथिव्याद्येकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षेण केवलज्ञानिवात् जानातीति प्रज्ञः [ ग्रन्थाग्रम् ४२५० ] स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थ पर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञाने| नार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा - संसारार्ण| वपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ 'धर्म' श्रुतचारित्राख्यं सम्यक् |इतं गतं सदनुष्ठानतया रागद्वेपरहितत्वेन समतया वा, तथा चोक्तम् - "जैहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई" इत्यादि, | समं वा-धर्मम् उत्- प्राबल्येन आह— उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति ॥ ४ किञ्चान्यत् १ यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते ॥ For Private And Personal ६ श्रीमहावीरस्तुत्य. ॥१४४॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy