________________
Shri Mahav
hradhana Kendra
www.kobatirth.org
Acharya Shri Kailashad
Syanmandir
वतो महावीर इति भण्यते, यदिवा-द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावय॑ते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् , स च वीरवर्धमानखाम्येवेति ॥ स्तवनिक्षेपार्थमाह| थुइणिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती । भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥ ८४॥ ४] 'स्तुतेः' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत् , द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूर
स्रक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति ॥ साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाह
पुच्छिसु जंबुणामो अज सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएज्जाहि ॥ ८५॥ ___ जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान् , अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो महावीर इति कथितवान् , एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् | तथैव यत्नं विधत्तेति ।। साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
पुच्छिस्सु णं समणा माहणा य, अगारिणो या परतिथिआ य । से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहु समिक्खयाए ॥१॥ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? ।
For Private And Personal