________________
Shri Mahavi
d hana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
b yanmandir
॥ अथ चतुर्थं स्त्रीपरिज्ञाध्ययनं प्रारभ्यते ॥
Saeeeeeeeserveeeeeeeee
___ उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च ६ प्रायोऽनुकूला दुःसहाः, ततोऽपि स्वीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनााधिकारः प्राग्वत् नियुक्तिकृता 'थीदोषविवजणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकदेव भणिष्यति, साम्प्रतं निक्षेपः, स चौधनांमसूत्रालापकभेदात्रिधा, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने 'स्त्रीपरिज्ञेति | | नाम, तत्र नामस्थापने क्षुण्णखादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह
दव्वाभिलावचिंधे वेदे भावे य इत्थिणिक्खेवो । अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो ॥५६॥ तत्र द्रव्यस्त्री द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकखा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकमविका बद्धायुष्काभिमुखनामगोत्रा चेति, चियते-ज्ञायतेऽनेनेति चिह्न-स्त१ व्यतिरिक्तभेदाः।
For Private And Personal