________________
Shri Mahavir
www.kobatirth.org
Jarana Kendra
Yanmandir
Acharya Shri Kailashsal
त्तियुतं
सूत्रकृताङ्गं 18 मोक्षे अपरित्यागे सति 'अयोहारिव्व जूरह'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो-लोहस्साऽऽहर्ता ||
सालाहखाऽऽहत्वा३ उपसशीलाङ्का- अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमितिकता नोज्झितवान् , पश्चात् स्वावस्थानावाप्तावल्पलाभे सति जूरितवान्-पश्चा-18||र्गाध्य चार्याय
तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ॥७॥ पुनरपि 'सातेन सातमित्येवंवादिनां शाक्यानां दोषोद्विभावयिषयाह-8 उद्देशः।
प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहेषु वर्तमाना असंयता. यूयं वर्तमानसुखैषिणोऽल्पेन वैषयिकसुखाभासेन पारमार्थि-12 ॥९७॥
कमेकान्तात्यन्तिकं बहु मोक्षसुखं विलुम्पथेति, किमिति , यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारम्भतया प्रा-2 णातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिः क्रियते तानि शरीराणि तत्स्वामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रबजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादः तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति ॥८॥ साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह
एवमेगे उ पासस्था, पन्नवंति अणारिया । इत्थीवसं गया बाला, जिणसासणपरम्मुहा ॥ ९॥ जहा गंडं पिलागं वा, परिपीलेज मुहुत्तगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ? ॥१०॥ जहा मंधादए नाम, थिमिअं भुंजती दगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ?॥११॥ जहा विहंगमा पिंगा, थिमिअं भुंजती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ! ॥१२॥
-
For Private And Personal