________________
Shri Mahavir
e rana Kendra
www.kcbatrth.org
Acharya Shri Kailashga
mandi
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
३.उपसगोध्य० उद्देशः १
॥८
॥
दि, अपिः संभावने, एकः कश्चिच्छादिः.लूपयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधियंति क्षुधितं-बुभुक्षितं भिक्षामटन्तं भिक्षु 'दशति' भक्षयति दशनैरङ्गावयवं विलुम्पति, 'तत्र' तस्मिन् श्वादिभक्षणे सति 'मन्दा' अज्ञा अल्पसत्त्वतया 'विषीदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनों' जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं |संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्वैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्वामकण्टकानाम् ॥ ८॥ पुनरपि तानधिकृत्याह
अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो॥९॥ अप्पेगे वइ जुजंति, नगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उजल्ला असमाहिता ॥ १०॥ ६ अपिः संभावने, 'एके' केचनापुष्टधर्माणः- अपुण्यकर्माणः 'प्रतिभाषन्ते' युवते, प्रतिपथः-प्रतिकूलखं तेन चरन्ति | प्रातिपन्थिकाः-साधुविद्वेषिणस्तद्भावमागताः कथञ्चित्प्रतिपथे वा दृष्टा अनार्या एतद् बुवते, सम्भाव्यत ऐतदेवंविधानां, | तद्यथा-प्रतीकारः-पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो 'य एते' यतयः ‘एवंजीविन' इति परगृहाण्यटन्ति अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुञ्चितशिरसः सर्वभोगवञ्चिता दु:खितं जीवन्तीति ॥ ९ ॥ किञ्च-अप्येके केचन कुमृतिप्रस्ता अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्नास्तथा 'पिंडोलग'त्ति परपिण्डप्रा१ जुज्झितं प्र० झझियं चू. २ तदारवेयणिज्जे ते चू० ३ पिंडेसु दीयमानेसु उल्लेति अधमा अधमजातयः चू. ४ उज्जाताः नष्टाः चु०
For Private And Personal