SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahal (@ vadhana Kendra www.kobatirth.org a nmandir ऊ99000000000000000000 Acharya Shri Kailashag दो चेव सुयक्खंघा अज्झयणाई च हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंगं ॥ २२॥ द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति-प्रथमाध्ययने चखारो द्वितीये त्रयस्तृतीये चखारः एवं चतुर्थपञ्चमयोद्वौं द्वौ तथैकादशखेकसरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीय श्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमङ्गं, षट्त्रिंशत्पदसहस्रपरिमाणमित्यर्थः ॥२२।। साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पननिक्षेपाभिधित्सयाऽऽहनिक्खेवो गाहाए चउविहो छबिहो य सोलससु। निक्खेवो य सुयंमि य खंधे य चउविहो होइ ॥२३॥ इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यसिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु विधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च"सत्तद्वतरू विसमे ण से हया ताण छह णह जलया। गाहाए पच्छद्धे भेओ छट्ठोति इक्ककलो॥१॥" इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात् , तत्राऽऽगमतोगाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्वि दमेव गाथाख्यमध्ययनम् , आगमैकदेशत्वादस्य । षोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामSH १ सप्त तरवः ( चतुर्मात्रा गणाः) अष्टमः ( गुरुः ) विषमे न ( जगणः, ) तस्याघातकास्तासां षष्ठे नहौ (चतुर्लघवः ) जो वा । गाथायाः पश्चार्धे भेदः षष्ठ | एककल इति ॥१॥ eleseseeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy