________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashga
qanmandir
किंबनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां, प्रभाषितमिति सूत्रकृताङ्गा|पेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य 'खाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिट्शप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पवयेति ॥ १९ ॥ पुनरन्यथा सूत्रकृतनिरुक्तमाह| अक्खरगुणमतिसंघायणाऍ कम्मपरिसाडणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सूत्तगडं ॥ २०॥
अक्षराणि-अकारादीनि तेषां गुणः-अनन्तगमपर्यायवचमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यतात् , मतेः-मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्ष
रगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां-ज्ञानावरणादीनां परिशाटना-जी-IN शिवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोद्यम कुर्वन्ति ।
तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापश्चाधैन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन च कृतमिदं । सूत्रं तेन सूत्रकृतमिति ।। २० ॥ इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम् , अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽह_सुत्तेण सुत्तिया चिय अस्था तह सूइया य जुत्तो य ।तो बहुविहप्पैउत्ता एय पसिद्धा अणादीया ॥ २१ ॥ १ प्रोताः २ युज्यमानाः ३ चउब्विहेण जाइबंधेण पंचावयवविशेषेण वा पृ.
9999999999999
Recreateeeeeese
सत्रक्र.२
For Private And Personal