SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jaip Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥१३१॥ www.kobatirth.org ते परमाधार्मिकास्तान्नारकान्स्वकीये रुधिरे तप्तकवल्यां प्रक्षिप्ते पुनः पचन्ति वर्चः प्रधानानि समुच्छ्रितान्यन्त्राण्यङ्गानि वा येषां ते तथा तान् भिन्नं-चूर्णितम् उत्तमाङ्ग - शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह - 'परिवर्तयन्तः' उत्तानानवाङ्मुखान् वा | कुर्वन्तः णमिति वाक्यालङ्कारे तान् - 'स्फुरत' इतश्चेतश्च विहलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति ॥ १५ ॥ तथा - ते च नारका एवं बहुशः पच्यमाना अपि 'नो' नैव 'तत्र' नरके पाके वा नरकानुभावे वा सति 'मषीभवन्ति' नैव भ| स्मसाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमभिप्रक्षिप्त मत्स्यादिकमप्यस्ति यन्मीयते -उपमीयते, अनन्यसदृशीं तीव्रां वेदनां वाचामगोचरामनुभवन्तीत्यर्थः, यदिवा - तीव्राभिवेदनयाऽप्यननुभूत स्वकृतकर्मखान म्रियन्त इति, प्रभूतमपि कालं यावत्तत्तादृशं शीतोष्णवेदनाजनितं तथा दहनच्छेदन भेदनतक्षण त्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं च 'अनुभागं' कर्मणां विपाकम् 'अनुवेदयन्तः समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति तथा खकृतेन 'दुष्कृ| तेन' हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन | मुच्यन्त इति ॥ १६ ॥ किञ्चान्यत् तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविंति ॥ १७ ॥ १ अरब्भिया० प्र० । Acharya Shri Kailashsagarshmandir For Private And Personal ५ नरकवि भक्त्यध्य. उद्देशः १ ॥१३१॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy