________________
Ma
Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarria
mandir
तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुलां नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माण' परमाधार्मिकाः 'कीलेषु' कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां 'स्मृत्या विप्रहीणा' अपगतकर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तानष्टांत्रिशूलिकाभिः शु.| लाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति ॥९॥ अपिच-केषांचिन्नारकाणां परमाधार्मिका महतीं शिला गले बद्धा महत्युदके 'बोलंति'त्ति निमजयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुरामौ च 'लोलयन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशितानारकान् सुण्ठ| के प्रोतकमांसपेशीवत् 'पचन्ति' भर्जयन्तीति ॥१०॥ तथा
आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उ अहेअं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ जंसी गुहाए जलणेऽतिउद्दे, अविजाणओ डज्झइ लुत्तपण्णो।।
सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ॥ १२ ॥ न विद्यते सूर्यो यस्मिन् सः अमूर्यो-नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽमूर्य इति व्यपदिश्यते, १ कर्तव्याकर्तव्य० प्र० । २ इयत्त० प्र० । ३ प्रोतमां० प्र० । ४ असूरियं प्र० ।
For Private And Personal