________________
Shri Martin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagar
a nmandir
सूत्रकृताङ्गं शीलाङ्काचाीय
जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥ ४॥
५ नरकवि. | भक्त्यध्य. उद्देशः १
त्तियुतं
॥१२७॥
ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सायद्यानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या 'इह'। असिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि 'कमाणि' अनुष्ठानानि 'रौद्राः प्राणिनां भयोत्पादकलेन भयानकाः हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे' अत्यन्तभयानके 'तमिसंधयारे'त्ति बहलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवानि पश्यन्ति, तथा चागमः-"किण्हलेसे णं भंते ! णेरइए किण्हलेस्सं रइ पणिहाए ओहिणा सवओ समंता समभिलोएमाणे केवइयं खेत्तं जाणई ? केवइयं खेत्तं पासइ, गोयमा! णो बहुययरं खेत्तं जाणइ णो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासई" इत्यादि तथा तीब्रो-दु:सहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः-सन्तापो यस्मिन् स तीव्राभितापः तसिन् एवम्भूते नरके बहुवेदने अपरित्यक्तविषयाभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम्-"अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोदहिवलयामुहंमि दुक्खागरे निरए ॥१॥ पायकंतोरस्थलमुहकुहरुच्छलियरुहिरगं। १ कृष्णलेझ्यो भदन्त ! नैरयिकः कृष्णलेश्यं नैरयिकं प्रणिधायावधिना सर्वतः समन्तात् समभिलोकयन् कियत्क्षेत्रं जानाति कियत्क्षेत्रं पश्यति !, गौतम! नो
बहुतरं क्षेत्रं जानाति नो बहुतरं क्षेत्रं पश्यति इत्वरमेव क्षेत्र जानाति इत्वरमेव क्षेत्रं पश्यति । २ अत्यक्तविषयसुखः पतति अविध्यातशिखिशिखानिवहे । संसारोNI दधिव लयामुखे दुःखाकरे निरये ॥१॥ ३ महे प्र०। ४ पादाक्रान्तोरस्थलमुखकुहरोच्छलितरुधिरगंडूषे करपत्रोत्कृत्तद्विधीभागविदीर्णदेहाधैं ॥१॥
॥१२७॥
For Private And Personal