________________
Shri Maharapi. Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
eeeeeeeeeeeese Presesed
संघायणे य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणाउडतिरिच्छादिकरणं च ॥७॥
संघातकरणम्-आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूर्वतिरश्चीनाद्यापादनमिति ॥ ७॥ प्रयोगकरणमभिधाय विस्रसाकरणाभिधित्सयाह___ खंधेसु दुप्पएसादिएसु अन्भेसु विजुमाईसु । णिप्फण्णगाणि दब्वाणि जाण तं वीससाकरणं ॥ ८॥
विस्रसाकरणं साद्यनादिभेदाविधा,तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम् , अन्योऽन्यसमाधानाश्रयणाच्च सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च व्यणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धखापत्तिः सादिकं करणं, पुद्गलद्र-5 व्याणां च दशविधः परिणामः, तद्यथा-बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निन्धरूक्ष
बात , गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामः-खण्डप्रतरचूर्णकानुत४ टिकोत्करिकाभेदेन पञ्चधैव, खंडादिखरूपप्रतिपादकं चेदं गाथाद्वयम् , तद्यथा-'खंडेहि खंडभेयं पयरम्भेयं जहन्भपडलस्स । चुण्णं चुणियभेयं अणुतडियं वसवक्कलियं ॥१॥ दुदुमि समारोहे भेए उकेरिया य उक्करं । वीससपओगमीसगसंघायविओग
१ विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चु० । २ अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन । ३ खण्डानां खण्डभेदः प्रतरभेदो यथाऽभ्रपटलस्य । चौर्णश्चूर्णितभेदोऽनुतटिका वंशवल्कलिका ॥ १ ॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विश्रसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः ॥२॥ ४ बुंदसीति | काष्ठघटनो बुन्द इति वि० प० ।
For Private And Personal