________________
Shri Martin Aradhana Kendra
www.kobatirth.org
ramandir
Acharya Shri Kailashsa नव भेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म बिभृयात् , यथा च स्त्रीस्पर्शपरीषहः सोढव्य एवं सवोनपि शीतोष्णदंशमशकतृणादि
स्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ॥ २१॥ क एवमाहेति दर्शयति-'इति एवं यत्पूर्वमुक्तं तत्सर्व || स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान् , यत एषमतो धूतम्-अपनीतं रजः-स्त्रीसम्पर्कादिकृतं कर्म
| येन स धृतरजाः तथा धृतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धृतः-अपनीतो रागमार्गो-रागपन्था यसिन् स्त्रीसं| स्तवादिपरिहारे तत्तथा तत्सर्व भगवान् वीर एवाह, यत एवं तसात् स भिक्षुः 'अध्यात्मविशुद्ध' सुविशुद्धान्तःकरणः सुष्टु रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत् गच्छेत्संयमोद्योगवान् भवेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २२॥ इति चतुर्थ स्त्रीपरिज्ञाध्ययनं परिसमाप्तम् ॥
सुत्रकृ. २१
For Private And Personal