SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri MahJain Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥ ४९ ॥ www.kobatirth.org Acharya Shri Kailashsaganmandir लोगवायं णिसामिज्जा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥ ५ ॥ अणंते निइए लोए, सासए ण विणस्सती । अंतवं णिइए लोए, इति धीरोऽतिपास ॥ ६ ॥ लोकानां - पाखण्डिनां पौराणिकानां वा वादो लोकवादः -- यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' शृणुयात् जानीयादित्यर्थः, तदेव दर्शयति – 'इह' अस्मिन्संसारे 'एकेषां' केषाञ्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव विशिनष्टि विपरीता - परमार्थादन्यथाभूता या प्रज्ञा तथा संभूतं समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति - अन्यैः - अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः ॥ ५ ॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह – नास्यान्तो ऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहि--यो याडगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निर|वधिक इतियावत्, तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो व्यणुकादिकार्य| द्रव्यापेक्षया शश्वद्भवन्नपि न कारणद्रव्यं परमाणुखं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथाऽन्तोऽ| स्यास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरे 'ति परिमाणोक्तेः, स च तादृक्परिमाणो नित्य इत्येवं 'धीरः' कश्चित्साहसिकोऽन्य| थाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवं भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः । तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोम्नस्य वा न सन्ति लोका' इत्येवमादिकं निर्युक्तिकं लोकवादं निशामयेदिति ॥ ६ ॥ किंच For Private And Personal १ समया० उद्देशः ४ लोकवादाः ॥ ४९ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy