SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे अभिनिर्वयं खलु उपदर्शयेद् अयमायुष्मन् ! मांसः इदम् अस्थि एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषः करतलादामलकम् अभिनिवत्यै खलु उपदर्शयेद् इदम् आयुष्मन् ! करतलम् इदमामलकम् एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कश्चित् पुरुषो दध्नो नवनीतम् अभिनिवयं खलु उपदर्शयेद् इदमायुष्मन् ! नवनीतम् इदं तु दधि, एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अय. मायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषः तिलेभ्यस्तैलम् अभि. निवर्त्य खलु उपदर्शयेत् इदमायुष्मन् ! तैलम् अयं पिण्याकः एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता आयुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषा इक्षुतः क्षोदरसम् अभिनिवयं खलु उपदर्शयेद् अयम् आयुष्मन् ! क्षोदरसः अयं क्षोदः एवमेव यावद् शरीरम् । तया नामकः कोऽपि पुरुषः अरणितः अग्निम् अभिनिपत्य खजु उपदर्शयेत् , इयम् आयुष्मन् ! अरणिः अयमग्निः एवमेव यावत् शरीरम् । एवम् असन् असंवेद्यमानः येषां तत् स्वाख्यातं भवति, तद्यथा-अन्यो जीवः अन्यच्छरीरं तस्मात् ते मिथ्या । स हन्ता तं घातयत, खनत, क्षणत, दहत, पचत, आलुम्पत, विलुम्पत, सहसा कास्यतः विपरामशत, एतावान् जीव: नास्ति परलोकः। ते नो एवम् विपतिवेदयन्ति तद्यथा-क्रियां वा, अक्रियां वा, सुकृतं वा, दुष्कृतं वा, कल्यागं वा, पापकं वा, साधु वा, असाधु वा, सिद्धि वा, असिद्धि वा, निरय वा, अनिरयं वा, एवं ते विरूपरूपः कर्मसमारम्भैः विरूपरूपान् कामभोगान् समारभन्ते भोगाय। एवम् एके प्रागल्भिकाः निष्क्रिम्य मामकं धर्म प्रज्ञापयन्ति, तं श्रदधानाः तं मतियन्तः तं रोचमानाः, साधु स्वाख्यातं श्रमण इति वा माहन इति वा कामं खलु आयुष्मन् ! खां पूजयामि, तद्यथा-अशनेन वा पानेन वा खायेन वा स्वायेन वा, वस्त्रेण वा, प्रतिग्रहेण वा, कम्बलेन वा, पादपोछनेन वा, तत्रैके पूजायै समुस्थितवन्तः, तत्रैके पूजायै निकावितवन्तः । पूर्वमेव तेषां ज्ञातं भवति श्रमणाः भविष्यामः अनगाराः अकिश्रनाः अपुत्राः अपशवः परदत्तमोजिनः भिक्षकः पापं कर्म न करिष्यामः, समुत्थाय ते आत्मना अप्रतिविरताः भवन्ति । स्वयम् आददते अन्धानपि आदापयन्ति अन्यमपि आददन्तं समनुजानन्ति । एवमेव ते स्त्रीकाममोगेषु मूञ्छिताः गृद्धाः ग्रथिताः अध्युपपन्नाः लुब्धाः रागद्वेषवशार्ताः ते नो आत्मानं समुच्छेदयन्ति ते नो पर समु. च्छेदयन्ति, ते नो अन्यान् माणान् भूतानि जीवान सत्त्वान् समुच्छेदयनिन, पहीणाः पूर्वसंयोगाद् आर्य मार्गम् अमाप्ता इति ते नो अर्थाचे नो पाराय अन्तरा काममो. गेषु निषण्णाः इति प्रथमः पुरुषजातः तज्नीवतच्छरीरकइति भाख्यातः ।।०९॥ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy