SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir •४, ८०] चतुर्थोऽधिकारः एहि त्वमेहि संजल्पन्तिष्ठ कामिनि सांप्रतम् । उत्सङ्गे मृगशावाझि मम तापं व्यपोहय ॥७६।। इत्यादिकं वृथालापं जल्पन पित्रादिभिस्तदा। पृष्टस्ते पुत्र किं जातं ब्रूहि सर्व यथार्थतः ।।७७॥ स पृष्टोऽपि यदा नैव ब्रूते पित्रा तदा द्रुतम् । संपृष्टः कपिलः प्राह सर्व वृत्तान्तमादितः ॥७॥ युक्तं प्रच्छन्नकं काय किंचिद् वा शुभाशुभम् । मित्रं सर्व विजानाति सत्सखा शर्मदायकः ।।७९।। पुत्रस्यार्तिमथाकर्ण्य तव्यथापरिहानये । गृहं सागरदत्तस्य चचाल वणिजापतिः ।।८।। भवन्त्यपत्यवर्गस्य पितरस्तु सदा हिताः । यथा पद्माकरस्यात्र भानुर्नित्यं विकासकृत् ॥८॥ यावत्तस्य गृहं याति श्रेष्ठी वृषभदासवाक् । तावत्तस्य गृहे सापि पुत्री नाम्ना मनोरमा ॥२॥ सुदर्शनं समालोक्य विद्धा मदनशायकैः । गत्वा गृहं गृहीता वा पिशाचेन सुविह्वला ॥३॥ क्वासि क्वासि मनोऽभीष्ट मदीयप्राणवल्लभ । त्वद्विना मे घटी चापि याति कल्पशतोपमा ॥४॥ मासायते निमेषोऽपि गृहं कारागृहायते । देहि मे वचनं नाथ मदीयप्राणधारणम् ॥८५॥ स एव नरशार्दूलो भुवने परमोदयः। यो मां दर्शनमात्रेण पीडयत्यत्र मन्मथः ।।८।। इत्यादिकं प्रलापं च करोति स्म निरन्तरम् । भोजनादिकमुत्सृज्य तदा संसक्तमानसा ॥७॥ युक्तं दुष्टेन कामेन महान्तोऽपि महीतले । रुद्रादयोऽपि संदग्धा मुग्धेष्वन्येषु का कथा ।।८८|| For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy