________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
यज्जिनेन्द्रतपोयोगैर्मुन्याद्यैः क्रियते बलात् । कर्मणां क्षरणं सा चाविपाकाभिमता बुधैः ॥ ७४ ॥ या च दुःखादिभिः काले कर्मणां निर्जरा स्वयम् । सा भवेत्सविपाकाख्या संसारे सरतां सदा ।। ७५ ।। सर्वेषां कर्मणां नाशहेतुर्यो भव्य देहिनाम् । परिणामः स विज्ञेयो भावमोक्षो जिनैर्मतः ॥ ७६ ॥ यः सम्यग्दर्शनज्ञानचारित्रैर्जिनभाषितैः । शुक्लध्यानप्रभावेन सर्वेषां कर्मणां क्षयः ॥ ७७ ॥ द्रव्यमोक्षः स विज्ञेयोऽनन्तान्तसुखप्रदः । शाश्वतः परमोत्कृष्टो विशिष्टाष्टगुणार्णवः ।। ७८ ।। मुक्तिक्षेत्रं जिनैः प्रोक्तं त्रैलोक्य शिखराश्रितम् । प्राग्भाराख्यशिलामध्ये छत्राकारं मनोहरम् ।। ७९ ।। विस्तीर्ण योजनैः पञ्चचत्वारिंशत्प्रलक्षकैः । चन्द्रकान्तिपरिस्पर्द्धि विलसद्विमलप्रभम् ॥ ८० ॥ अष्टयोजनबाहुल्यं प्राग्भारापिण्डसं मितम् । विशिष्ट मुद्रिकामध्यहीरकं वा निवेशितम् ॥ ८१ ॥ मागून गव्यूतिं मुक्ता तस्योपरि ध्रुवम् । तिष्ठन्ति तनुवाते ते सिद्धा वो मङ्गलप्रदाः ।। ८२ ।। भवन्तु कर्मणां शान्त्यै जरामरणवर्जिताः । पूजिता वन्दिता नित्यं समाराध्याः स्वचेतसि ।। ८३ ।। एतेषां सप्ततत्त्वानां श्रद्धानं दर्शनं शुभम् । मोक्षसौख्यतरोर्बीजं पालनीयं बुधोत्तमैः ॥ ८४ ॥ शुभ भावो भवेत्पुण्यं स्वर्गादिसुखसाधनम् । अशुभ परिणामोsपि पापं शुभ्रादिदुःखदम् ॥ ८५ ॥ एवं तत्त्वार्थ सद्भावं लोक स्थितिसमन्वितम् । गौतमस्वामिना प्रोक्तं श्रुत्वा श्रीश्रेणिकः प्रभुः ॥ ८६ ॥
For Private And Personal Use Only
[ २,
48