________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
शान्तिनाथ जगद्वन्धं जगच्छान्तिविधायकम् । चक्राङ मृगचिह्नं च विश्वसेनसमुद्भवम् ॥ १० ॥ कुन्थुनाथमहं वन्दे धर्मचक्रान्वितं सदा । कुन्ध्वादिजीवसदयं हृदये करुणान्वितम् ॥ ११ ॥ अरनाथमहं वन्दे रत्नत्रयसमन्वितम् । रत्नत्रयप्रदातारं सेवकानां सदाहितम् ॥ १२ ॥ मल्लं कर्मजये मल्लं स्तुवेऽहं मुनिसुव्रतम् । नमीशं श्रीजिनं नौमि भुक्तिमुक्तिप्रदायकम् ॥ १३ ॥ नेमिनाथं नमाम्युरुचैः केवलज्ञानलोचनम् । वन्दे श्री पार्श्वनाथं च प्रसिद्ध महिमास्पदम् ॥ १४ ॥ संस्तुवे सन्मतिं वीरं महावीरं सुखप्रदम् । वर्धमानं महत्यादि महावीराभिधानकम् ।। १५ ।। एते श्रीमज्जिनाधीशाः केवलज्ञानसंपदः । अन्यकालत्रयोत्पन्नाः सन्तु मे सर्वशान्तये ॥ १६ ॥ संस्तुवेऽहं सदा सिद्धान् त्रिलोकशिखरस्थितान् । येषां स्मरणमात्रेण सर्वसिद्धिः प्रजायते || १७ ॥ जिनेन्द्रवदनाम्भोजसमुत्पन्नां सरस्वतीम् । संस्तुवे त्रिजगन्मान्यां सन्मातेव सुखप्रदाम् ॥ १८ ॥ यस्याः प्रसादतो नित्यं सतां बुद्धिः प्रसर्पति । प्रभाते पद्मिनीवोच्चैः तां स्तुवे जिनभारतीम् ॥ १९ ॥ नमामि गुणरत्नानामाकरान् श्रुतसागरान् । गौतमादिगणाधीशान् संसाराम्भोधितारकान् ॥ २० ॥ कवित्वनलिनीग्राम प्रबोधनदिवामणिम् । कुन्दकुन्दाभिधं नौमि मुनीन्द्रं महिमास्पदम् ॥ २१ ॥ जिनोत्तसप्रतत्त्वार्थ सूत्रकर्त्ता कवीश्वरः । उमास्वामिमुनिर्नित्यं कुर्यान्मे ज्ञानसंपदाम् ॥ २२ ॥
For Private And Personal Use Only
[ 1, 10