SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् [१०,११५. कर्मणां निर्जराहेतुं मत्वा चित्ते समग्रधीः । उपवासतपश्चक्रे तपसां मुख्यमुत्तमम् ॥११५।। यथाष्टाङ्गशरीरेषु मस्तकं मुख्यकारणम् । तथा द्वादशभेदानां तपसां स्यादुपोसनम् ॥११६।। आमोदर्य तपः स्वामी प्रमादपरिहानये । स्वाध्यायसिद्धये चक्रे कर्मचक्रनिवारणम् ॥११७।। वृत्तिसंख्यानकं नाम तपः संतोषकारणम् । वस्तुगेहवनोवृक्षसंख्यानैः कुरुते स्म सः॥११८।। जिनवाक्यामृतास्वादविशदीकृतमानसः । रसत्यागतपोधीरः स तेपे परमार्थवित् ॥११९॥ विविक्तशयनं नित्यं विविक्तं चासनं क्षितौ । भजति स्म सुधीः शीलदयापालनहेतवे ॥१२०॥ त्रिकालयोगसंयुक्त्या कायक्लेशतपोऽभवत् । तस्य तत्त्वप्रयुक्तस्य रतिनाथप्रवैरिणः ॥१२१॥ इत्येवं षड्विधं बाह्यमभ्यन्तरविशुद्धये । तपः संतप्तवान् गाढं कातराणां सुदुःसहम् ।।१२२॥ तस्य शुद्धचरित्रस्य कदाचिच्चेत्प्रमादता । प्रायश्चित्तं यथाशास्त्र तपोऽभूच्छल्यनाशकम् ॥१२३॥ विनयं भक्तितश्चक्रे सर्वदा धर्मवत्सलः । रत्नत्रयपवित्राणां मुनीनां परमार्थतः ।।१२४॥ रत्नत्रये पराशुद्धिविनयादस्य चाभवत् । विद्या विनयतः सर्वाः स्फुरन्ति स्म विशेषतः ॥१२॥ सत्यं पद्माकरे नित्यं भानुरेव विकाशकृत् । ततः साधर्मिकेषूचैविधेयो विनयो बुधैः ॥१२६॥ आचार्यपाठकादीनां दशधा सत्तपस्विनाम् । वैयावृत्त्यं स्वहस्तेन करोति स्म स संयमी ॥१२७॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy