________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-९, ९० ]
नवमोऽधिकारः ज्ञानमष्टविधं नित्यं समाराध्यं मुमुक्षुभिः । केवलज्ञानदं जैनं विरोधपरिवर्जितम् ।।८।। चारित्रं च द्विधा ज्ञेयं मुनिश्रावकभेदभाक । आद्यं त्रयोदशो भेद्यं परं चैकादशप्रभम् ।।८।। निश्चयेन निजात्मा च शुद्धो बुद्धो यथा शिवः । सेव्यते यन्महाभव्यदुराग्रह विवर्जितः ।।२।। रत्नत्रयं भावशुद्धं परमानन्दकारणम् । इत्यादि बोधिराराध्या सतां सारविभूषणम् ।।८३।।
इति बोधिप्रेक्षा।
संसारसागरे जीवान पततः पापकर्मणा । यः समुद्धृत्य संधत्ते पदे स्वर्गापवर्गजे ।।८।। स धर्मो जिननाथोक्तो दशलाक्षणिको मतः । रत्नत्रयात्मकश्चापि दयालक्षणसंबकः ॥८५।। संसारे सरतां नित्यं जन्तूनां कर्मशत्रभिः । दुर्लभं तं समासाद्य यन्न कुर्वन्तु धीधनाः ।।८।। सोऽपि धर्मो द्विधा प्रोक्तो मुनिश्रावकगोचरः। आद्यो दशविधो धर्मो दानपूजावतेः परः ।।८।। धर्मेण विपुला लक्ष्मीधर्मेण विमलं यशः । धर्मेण स्वर्गसत्सौख्यं धर्मेण परमं पदम् ।।८८।। इत्यादि धर्मसद्धावं मत्वा भव्यैः सुखार्थिभिः । श्रीमजिनेन्द्रसद्धर्मो नित्यं संसेव्यते मुदा ।।८२॥
इति धर्मानुप्रेक्षा।
एवं सुदर्शनो धीमान् महाभव्यशिरोमणिः । अनुप्रेक्षास्तरां ध्यात्वा दीक्षा लातुं समुद्यतः ॥२०॥
For Private And Personal Use Only