________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमद् जङ्गम युगप्रधान भट्टारक खरतरग
च्छाधीश्वर श्री कृपाचन्द्रसूरीश्वराणाम्
अष्टकम.
शार्दूलविक्रीडितम् श्रीमन्तः श्रुतदर्शनावनपराश्चारित्रमुख्यव्रताः । स्वस्याचार्यपरंपरागतमहागच्छाग्यपीठेश्वराः ॥ धर्मोद्धारमहाव्रतस्य विधिवत् संपादने तत्पराः । जीयासुर्गणपालका जिनकृपाश्चन्द्राख्यसूरीश्वराः ॥ १॥ नानाशास्त्रविचारनिर्णयविधौ तवार्थसंपादकाः । सद्धर्माचरणप्रचारणपरा वाणीश्वरस्पर्धिनः । सम्यक्त्वैकपथानुगाः पटुतमस्फुर्जन्मतिप्रक्रमाः। जीयासुर्गणपालका जिनकृपाश्चन्द्रारूयसूरीश्वराः ॥ २ ॥ यैः स्वीयैः प्रखरप्रतापदहनैर्दग्ध्यात्मीयान्तररिपून् । जैनेषु कृतकृत्यतां खरतरे त्युच्चंपदं प्रापितं ॥ सदरत्नत्रिकपालनाय सततं बद्धोधमाः सवेतः। जीयासुगणपालका जिनकृपाश्चन्द्राख्यसूरीश्वराः ॥३॥
शिखरणीवृत्तम् श्रिया सेव्यो मुक्त्यै सुरनरफणीन्द्रश्च मुनिभिः । धिया ध्येयो धर्मे सुरगुरुसमानैश्च कविमिः ॥
For Private And Personal Use Only